|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.149. अध्यायः 149
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण भीष्मंप्रति अबुद्धिपूर्वकब्रह्महत्याप्रायश्चित्तप्रश्नः॥ 1॥ भीष्मेण जनमेजयस्याबुद्धिपूर्वकब्रह्महत्याप्राप्तिकथनपूर्वकं तत्कथाकथनारम्भः॥ 2॥ शौनकेन स्वपादयोः प्रणमतो जनमेजयस्य गर्हणम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-149-0x(5789)(70913)
अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम।
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे॥ 12-149-1(70914)
भीष्म उवाच। 12-149-2x(5790)
अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम्।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम्॥ 12-149-2(70915)
आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः।
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम्॥ 12-149-3(70916)
ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः।
स जगाम वनं राजा दह्यमानो दिवानिशम्॥ 12-149-4(70917)
प्रजाभिः स परित्यक्तश्चकार कुशलं महत्।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना॥ 12-149-5(70918)
ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून्।
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः॥ 12-149-6(70919)
तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपवृंहणम्।
दह्यमानः पापकृत्या जगाम जनमेजयः॥ 12-149-7(70920)
चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्।
समासाद्योपजग्राह पादयोः परिपीडयन्॥ 12-149-8(70921)
ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः॥ 12-149-9(70922)
किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथंचन।
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन्॥ 12-149-10(70923)
रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्।
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि॥ 12-149-11(70924)
अन्तर्भृत्युरशुद्धात्मा पापमेवानुचिन्तयन्।
प्रबुध्यसे प्रस्वपिपि वर्तसे परमे सुखे॥ 12-149-12(70925)
मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि।
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे॥ 12-149-13(70926)
बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान्।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया॥ 12-149-14(70927)
पितृवंशमिमं पश्य त्वत्कृते निधनं गतम्।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः॥ 12-149-15(70928)
यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः।
तेषु ते संततं द्वेषो ब्राह्मणेषु निरर्थकः॥ 12-149-16(70929)
इमं लोकं विमुच्य त्वमवाङ्भूर्धा पतिष्यसि।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा॥ 12-149-17(70930)
स्वाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि॥ 12-149-18(70931)
यदिदं मन्यसे राजन्नायमस्ति कुतः परः।
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये॥ ॥ 12-149-19(70932)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः॥ 149॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-149-3 पारिक्षित् पारिक्षितः॥ 12-149-7 पापकृत्या पापक्रियया॥ 12-149-10 मा मां स्प्राक्षीः कथंचनेति झ. पाठः॥ 12-149-12 ब्रह्ममृत्युरशुद्धात्मेति झ. पाठः॥ 12-149-13 यवीयसे हीनाय॥ 12-149-15 त्वत्कृते नरकं गतमिति झ. पाठः॥ 12-149-17 अशाश्वतीः सर्वस्यापि कर्मणोऽन्तवत्त्वात्। शाश्वतीः बहुत्वात्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|